ग्लहः इति निपात्यते, अक्षविषयश्चेद् धात्वर्थो भवति। ग्रहेरप् सिद्ध एव, लत्वार्थं निपातनम्। अक्षस्य ग्लहः। अक्षेषु इति किम्? ग्रहः पादस्य। अन्ये ग्लहिं प्रकृत्यन्तरम् आहुः। ते घञं प्रत्युदाहरन्ति। ग्लाहः।
"ग्रहेरप् सिद्ध एव" इति। "ग्रहवृदृ"
३।३।५८ इत्यादिना। यद्येवम्, किमर्थं निपातनमित्याह-- "लत्वार्थम्" इत्यादि॥